सुरूपकृत्नुमाश्रये
सुदुघामिव गोदुहे ।
दिवे दिवे तमाह्वये
इन्द्रं वीरमुपाश्रये ॥
उप नः सवनं गच्छ
सोमपाः सोममापिब ।
गोदा स रेवतो मदः
गोमन्तं धेहि नः रयिम् ॥
तव सुमतीनामन्तं
विद्याम नः समीपतः ।
मा नः परिहरो देव
आ गच्छ नः समीपतः ॥
इन्द्रं वीरं दुरासदम्
विपश्चितं तं पृच्छेम ।
सखिभ्यो वरमुत्तमम्
हितं नोऽत्र प्रदर्शय ॥
निन्दका दूरमीयन्तु
अन्यत्रापि पराङ्मुखाः ।
इन्द्रे दुवो दधामहे
सखायं तमुपास्महे ॥
सुभगा इति नो ब्रूयुः
कृष्टयोऽपि च मानवाः ।
इन्द्रस्य शर्मणि स्याम
दस्म ते शर्म नः सदा ॥
आशुं भर त्वमाशवे
यज्ञश्रियं नृमादनम् ।
सखायं प्रहर्षयत्वम्
वेगेनैनं प्रवर्तय ॥
सोमं पीत्वा शतक्रतो
वृत्राणां हन्ताऽभवः ।
वाजेषु वाजिनम् त्वं तम्
प्रावो वीर महाबल ॥
तं त्वा वाजेषु वाजिनम्
वाजयामः शतक्रतो ।
वाजेषु जयमावह
धनानां सातये विभो ॥
यो रायोऽवनिर्महान् नः
सुपारः सुन्वतः सखा ।
तस्मै इन्द्राय गायामः
स नः सखा सदा भव ॥

Sreekumar (KJ) has been a hobby programmer from school days. Codemarvels is his personal blog from the year 2010, where he writes about technology, philosophy, society and a bit about physics.
He now runs a conversational AI company – DheeYantra – focusing his efforts to help businesses improve operational efficiency using digital employees powered by AI.